bhajagovindam Verses and Commentary
bhaja govindaṁ
1) भज गोविन्दं भज गोविन्दं गोविन्दं भज मूढमते ।सम्प्राप्ते सन्निहिते काले नहि नहि रक्षति डुकृञ्करणे ॥
2) मूढ जहीहि धनागमतृष्णां कुरु सद्बुद्धिं मनसि वितृष्णाम् ।
यल्-लभसे निजकर्मोपात्तं वित्तं तेन विनोदय चित्तम् ॥
3) नारीस्तनभरनाभीदेशं दृष्ट्वा मा गा मोहावेशम् ।
एतन्माम्सवसादिविकारं मनसि विचिन्तय वारं वारम् ॥
4) नलिनीदलगतजलमतितरलं तद्वज्जीवितम् अतिशयचपलम् ।
विद्धि व्याध्यभिमानग्रस्तं लोकं शोकहतं च समस्तम् ॥
5) यावद्वित्तोपार्जनशक्त: तावन्निजपरिवारो रक्त: ।
पश्चात् जीवति जर्जरदेहे वार्ता कोऽपि न पृच्छति गेहे ॥
6) यावत्पवनो निवसति देहे तावत्पृच्छति कुशलं गेहे ।
गतवति वायौ देहापाये भार्या बिभ्यति तस्मिन्काये ॥
7) बालस्तावत्क्रीडासक्त: तरुणस्तावत्तरुणीसक्त: ।
वृद्धस्तावच्चिन्तासक्त: परमे ब्रह्मणि कोऽपि न सक्त: ॥
8) का ते कान्ता कस्ते पुत्र: संसारोऽयमतीव विचित्र: ।
कस्य त्वं क: कुत आयात: तत्त्वं चिन्तय तदिह भ्रात: ॥
9) सत्सङ्गत्वे निस्सङ्गत्वं निस्सङ्गत्वे निर्मोहत्वम् ।
निर्मोहत्वे निश्चलतत्वम् निश्चलतत्वे जीवन्मुक्ति: ॥
10) वयसि गते क: कामविकार: शुष्के नीरे क: कासार: ।
क्षीणे वित्ते क: परिवार: ज्ञाते तत्त्वे क: संसार: ॥
11) मा कुरु धनजनयौवनगर्वं हरति निमेषात्काल: सर्वम् ।
मायामयमिदमखिलं बुद्ध्वा ब्रह्मपदं त्वं प्रविश विदित्वा ॥
12) दिनयामिन्यौ सायं प्रात: लशिशिरवसन्तौ पुनरायात: ।
काल: क्रीडति गच्छत्यायु: तदपि न मुञ्चत्याशावायु: ॥
13) का ते कान्ता धनगतचिन्ता वातुल किं तव नास्ति नियन्ता ।
त्रिजगति सज्जनसंगतिरेका भवति भवार्णवतरणे नौका ॥
14) जटिलो मुण्डी लुञ्चितकेश: काषायाम्बरबहुकृतवेष: ।
पश्यन्नपि च न पश्यति मूढ: ह्युदरनिमित्तं बहुकृतवेष: ॥
15) अङ्गं गलितं पलितं मुण्डं दशनविहीनं जातं तुण्डम् ।
वृद्धो याति गृहीत्वा दण्डं तदपि न मुञ्चत्याशापिण्डम् ॥
16) अग्रे वह्नि: पृष्ठे भानु: रात्रौ चुबुकसमर्पितजानु: ।
करतलभिक्षस्तरुतलवास: तदपि न मुञ्चत्याशापाश: ॥
17) कुरुते गङ्गासागरगमनं व्रतपरिपालनमथवा दानम् ।
ज्ञानविहीन: सर्वमतेन भजति न मुक्तिं जन्मशतेन ॥
18) सुरमन्दिरतरुमूलनिवास: शय्या भूतलमजिनं वास: ।
सर्वपरिग्रहभोगत्याग: कस्य सुखं न करोति विराग: ॥
19) योगरतो वा भोगरतो वा सङ्गरतो वा सङ्गविहीन: ।
यस्य ब्रह्मणि रमते चित्तं नन्दति नन्दति नन्दत्येव ॥
20) भगवद्गीता किञ्चिदधीता गङ्गाजललवकणिका पीता ।
सकृदपि येन मुरारि समर्चा क्रियते तस्य यमेन न चर्चा ॥
21) पुनरपि जननं पुनरपि मरणं पुनरपि जननीजठरे शयनम् ।
इह संसारे बहुदुस्तारे कृपयापारे पाहि मुरारे ॥
22) रथ्याचर्पटविरचितकन्थ: पुण्यापुण्यविवर्जितपन्थ: ।
योगी योगनियोजितचित्तो रमते बालोन्मत्तवदेव ॥
23) कस्त्वं कोऽहं कुत आयात: का मे जननी को मे तात: ।
इति परिभावय सर्वमसारं विश्वं त्यक्त्वा स्वप्नविचारम् ॥
24) त्वयि मयि चान्यत्रैको विष्णु: व्यर्थं कुप्यसि मय्यसहिष्णु: ।
सर्वस्मिन्नपि पश्यात्मानं सर्वत्रोत्सृज भेदाज्ञानम् ॥
25) शत्रौ मित्रे पुत्रे बन्धौ मा कुरु यत्नं विग्रहसन्धौ ।
भव समचित्त: सर्वत्र त्वं वाञ्छस्यचिराद्यदि विष्णुत्वम् ॥
26) कामं क्रोधं लोभं मोहं त्यक्त्वात्मानं भावय कोऽहम् ।
आत्मज्ञानविहीना मूढा: ते पच्यन्ते नरकनिगूढा: ॥
27) गेयं गीतानामसहस्रं ध्येयं श्रीपतिरूपमजस्रम् ।
नेयं सज्जनसङ्गे चित्तं देयं दीनजनाय च वित्तम् ॥
28) सुखत: क्रियते रामाभोग: पश्चाद्धन्त शरीरे रोग: ।
यद्यपि लोके मरणं शरणं तदपि न मुञ्चति पापाचरणम् ॥
29) अर्थमनर्थं भावय नित्यं नास्ति तत: सुखलेश: सत्यम् ।
पुत्रादपि धनभाजां भीति: सर्वत्रैषा विहिता रीति: ॥
30) प्राणायामं प्रत्याहारं नित्यानित्यविवेकविचारम् ।
जाप्यसमेतसमाधि विधानं कुर्ववधानं महदवधानम् ॥
31) गुरुचरणाम्बुजनिर्भरभक्त: संसारादचिराद्भव मुक्त: ।
सेन्द्रियमानसनियमादेवं द्रक्ष्यसि निजहृदयस्थं देवम् ॥
32) मूढ: कश्चन वैयाकरणो डुकृञ्करणाध्ययन-धुरीण: ।
श्रीमच्छंकर-भगवच्छिष्यै: बोधित आसीच्छोधित करण: ॥
33) भज गोविन्दं भज गोविन्दं गोविन्दं भजे मूढमते ।
नामस्मरणादन्यमुपायं नहि पश्यामो भवतरणे ॥